वांछित मन्त्र चुनें

ए॒वा दे॒वाँ इन्द्रो॑ विव्ये॒ नॄन्प्र च्यौ॒त्नेन॑ म॒घवा॑ स॒त्यरा॑धाः । विश्वेत्ता ते॑ हरिवः शचीवो॒ऽभि तु॒रास॑: स्वयशो गृणन्ति ॥

अंग्रेज़ी लिप्यंतरण

evā devām̐ indro vivye nṝn pra cyautnena maghavā satyarādhāḥ | viśvet tā te harivaḥ śacīvo bhi turāsaḥ svayaśo gṛṇanti ||

पद पाठ

ए॒व । दे॒वान् । इन्द्रः॑ । वि॒व्ये॒ । नॄन् । प्र । च्यौ॒त्नेन॑ । म॒घऽवा॑ । स॒त्यऽरा॑धाः । विश्वा॑ । इत् । ता । ते॒ । ह॒रि॒ऽवः॒ । श॒ची॒ऽवः॒ । अ॒भि । तु॒रासः॑ । स्व॒ऽय॒शः॒ । गृ॒ण॒न्ति॒ ॥ १०.४९.११

ऋग्वेद » मण्डल:10» सूक्त:49» मन्त्र:11 | अष्टक:8» अध्याय:1» वर्ग:8» मन्त्र:6 | मण्डल:10» अनुवाक:4» मन्त्र:11


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (एव मघवा सत्यराधाः-इन्द्रः) इस प्रकार गुणयुक्त सृष्टियज्ञ का कर्त्ता नित्यधनवान् मोक्षरूपस्थिर धनवान् मोक्ष का दाता परमात्मा (नॄन् देवान्) मुमुक्षु विद्वानों को (च्यौत्नेन) शरीरबन्धन को च्युत करनेवाले बल से (प्र विव्ये) प्रकृष्टरूप से अपनाता है (हरिवः शचीवः स्वयशः) हे दुःखहरण करनेवाले, दया और प्रसाद जिसके हैं, ऐसे हे कर्मवाले तथा स्वाधार यशवाले परमात्मन् !  (ते ता विश्वा तुरासः-अभि गृणन्ति) तेरे उन सब कार्यों को संयमी संसारसागर को तरनेवाले निरन्तर तेरी स्तुति करते हैं ॥११॥
भावार्थभाषाः - परमात्मा स्वाधार यशवाला है, मोक्षरूप धन का स्वामी है, मुमुक्षु उपासकों को अपनाता है, उन्हें मोक्ष प्रदान करता है। उसके दयाप्रसाद मानव के लिए भारी हितकर हैं। संयमी जन संसारसागर से तरने के लिए उसकी स्तुति करते हैं ॥११॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (एव मघवा सत्यराधाः-इन्द्रः) एवङ्गुणविशिष्टः सृष्टियज्ञवान् स्थिरधनवान् मोक्षरूपस्थिरधनवान् मोक्षस्य दाता खलु परमात्मा (नॄन् देवान्) मुमुक्षून् “नरो ह वै देवविशः” [जै० १।८९] विदुः (च्यौत्नेन) शरीरबन्धनच्यावनेन स्वबलेन “च्यौत्नं बलनाम” [नि० २।९] (प्र विव्ये) प्रकर्षेण संवृणोति-आत्मीयान् करोति “विव्ये संवृणोति” [ऋ० १।१७६।६ दयानन्दः] “व्येञ् संवरणे” [भ्वादिः] “आत्मनेपदि लिटि प्रथमपुरुषैकवचने रूपम्” प्रत्यक्षदृष्ट्योच्यते (हरिवः शचीवः स्वयशः) दुःखहर्तारौ दयाप्रसादौ यस्य तद्वन् दयाप्रसादवन् ! कर्मवन् ! अनपेक्षितान्याधार ! स्वापेक्षितं यशं यस्य तद्वन् ! स्वाधारयशोवन् ! परमात्मन् ! (ते ता विश्वा तुरासः-अभि गृणन्ति) तव तानि सर्वाणि कर्माणि संयमिनः संसारसागरं तरन्तः “तुर इति यमनाम तरतेः” [निरु० १२।१६] अभिष्टुवन्ति ॥११॥